बालानां वेदपारायणं तथा प्रासङ्गिकमन्त्रार्थनिरूपणम् दिनाङ्क - १३.११.२०२२
संस्कृतभारत्या आन्ध्रप्रदेशप्रान्तस्य विद्वत्परिषद श्रीमल्लिनाथसूरिविद्वत्परिषदश्च संयुक्ततत्त्वावधाने १३.११.२०२२ दिनाङ्के बालानां वेदपारायणं तथा प्रासङ्गिकमन्त्रार्थनिरूपणम् इति कार्यक्रम अन्तर्जालमाध्यमेन समायोज्यत । अल्पे वयसि बाला अत्यन्तं परिश्रम्य वेदानां कण्ठस्थीकरणं कुर्वन्ति । तेषां वेदपाठेन अन्येषां बालानां प्रेरणा भवतु धिया बालानां वेदपारायणकार्यक्रम समायोजि । एवमेव व्यवहारे अत्यन्तं प्रासङ्गिकानां मन्त्राणाम् अर्थनिरूपणेन वेदानां लोकोपकारकत्वं जनै ज्ञायेत इति हेतो व्याख्यानमपि समायोज्यत । तत्र कुमार विरिवेण्टिसाकेतकृष्ण ऋग्वेदमधिकृत्य पारायणम् अकरोत् । कुमार स्कन्द कृष्णयजुर्वेदस्य पारायणम् अकरोत् । कुमार शुभं पाण्डेय शुक्लयजुर्वदम् अधिकृत्य पारायणम् अकार्षीत् । कुमार जगन्नाथ सामवेदस्य पारायणम् अकृत । कुमार रविनारायण उपाध्याय अथर्ववेदस्य पारायणम् अकरोत् । एवं पञ्च बाला चतुर्णां वेदानां पाठमकार्षु । तथा च प्रासङ्गिकमन्त्रार्थनिरूपणम् इति विषयमुपलक्ष्य श्रीवेङ्कटेश्वरवेदवश्वविद्यालयस्य कृष्णयजुर्वेदभाष्यविभागस्य सहायकाचार्या आचार्या प्रवारामकृष्णशर्ममहदया सप्रमाणं व्याख्यानमदु । अस्य कार्यक्रमस्य आध्यक्षपदम् अलङ्कृतवान् श्रीमान् जन्नाभट्ल कुमारचन्द्रशेखरमहोदय संस्कृतभारत्या आन्ध्रप्रदेशस्य उपाध्यक्ष । कार्यक्रमस्य संचालनं विद्वत्परिषद प्रमुखेण डा. शिवरामभट्टमहोदयेन कृतम् । तान्त्रिकसाह्यम् आन्ध्रप्रदेशस्य प्रान्तप्रचारप्रमुखेण डा. कुमारबागेवाडीमठमहोदयेन कृतम् । अस्मिन् कार्यक्रमे आहत्य ७० सहभागिन भागम् स्वीकृतवन्त ।
YouTube link - https //youtu.be/bYmCI1cjLKA.
- Post By : Andhra Pradesh
- |
- 16-01-2023
- |








.jpeg)