Top
Samskrita Bharati - Jharkhand
संस्कृतभारती - झारखण्ड
Latest Media & News
Preview Media & News

गुमलाजनपदे ०४/०९/२०२४ दिनाङ्के संस्कृतसप्ताहसमारोह:
संस्कृतभारतीझारखण्डप्रान्तद्वारा गुमलाजनपदस्य बैजनाथजालानमहाविद्यालयस्य संस्कृतविभागे सितम्बरमासस्य ०४ दिनाङ्के संस्कृतसप्ताहसमारोह: आयोजित: आसीत्। अस्य कार्यक्रमस्य अध्यक्ष: महाविद्यालयस्य प्राचार्य: प्रो. लक्ष्मणसाहुमहोदय: आसीत्। मुख्यवक्तारुपेण डॉ. शैलेशकुमारमिश्रमहोदय: आसीत्। विशिष्टातिथिरुपेण डॉ. धनञ्जयवासुदेवद्विवेदीमहोदय: आसीत्।
अस्य कार्यक्रमस्य संयोजक: डॉ. पारङ्गतमहोदय: आसीत्। कार्यक्रमेऽस्मिन् विविध सांस्कृतिक कार्यक्रमाणाम् यथा संस्कृतगीतगायनम् श्लोकगायनम् समूहनृत्याणाम् च आयोजनम् अभवत् । सर्वम् आहत्य २०० शतं जना: उपस्थिता: आसन्।.


  • Post By : Jharkhand
  • |
  • 18-11-2024
  • |