Latest Media & News
Preview Media & News
जे.एन्.यू इत्यत्र दशदिवसात्मकसम्भाषणशिविरस्य आरम्भः
फ़रवरीमासस्य दशमे दिनाङ्के जवाहरलाल- नेहरूविश्वविद्यालयस्य संस्कृत-प्राच्यविद्याध्ययनसंस्थाने दशदिवसात्मकसम्भाषणशिविरस्य आरम्भः सफलतया जातः। शिविरस्योद्घाटनं संस्थाने उपस्थितेन आचार्यरामनाथझामहोदयेन कृतम्। शिविरेsस्मिन् प्रायः पञ्चविंशतिः छात्राः आसन्। शिक्षकरूपेण विभागप्रशिक्षणप्रमुखः नवीनमहोदयः आसीत्।सहशिक्षिका आसीत् सुश्री खुशबू ।अस्य शिविरस्यायोजनं जवाहरलालनेहरूविश्वद्यालयस्य संयोजिकया खुशबूमहोदयया कृतम्। संयोजने दीप्तिभगिन्याः संजयमहोदयस्य च भृशं साहाय्यं प्राप्तम्। अस्माकं विभागसंयोजकः देवकीनन्दनमहोदयोsपि उपस्थितः शिविरेsस्मिन्।.
- Post By : Delhi
- |
- 21-10-2018
- |



.jpeg)

























