Latest Media & News
Preview Media & News
आईआईटी देहल्यां संस्कृतसम्भाषणशिविरस्य शुभारम्भ:
16 जनवरी 2018 तदनुसारं मङ्गलवासरे सांयकाले 05:00 वादनत: 7:00 वादनपर्यन्तं संस्कृतभारती-नवदेहलीद्वारा अभियान्त्रिक-छात्राणां कृते संस्कृतसम्भाषणशिविरस्य शुभारम्भ: जातः l शिविरमिदं 27 जनवरीपर्यन्तं प्रचलिष्यति l शिविरेsस्मिन् 37 छात्र-छात्राश्च उपस्थिताः अभवन्सर्वे रुचिपूर्णरीत्या च भागं गृहीतवन्तःl शिविरस्य प्रारम्भे विभागशिक्षणप्रमुख:- डॉ.नवीनशर्मणा संस्कृतभारत्या: परिचय: कारित: l शिविरस्य शिक्षकौ अङ्कितारुणौ संयोजकौ आईआईटीत: हार्दिकनिखिलौ च स्तः l शिविरेsस्मिन् विभागसंयोजक: श्रीदेवकीनन्दनोsपि उपस्थित: आसीत् l.
- Post By : Delhi
- |
- 21-10-2018
- |



.jpeg)

























