Top
Samskrita Bharati - Saurashtra
संस्कृतभारती - सौराष्ट्र
Latest Media & News
Preview Media & News

सौराष्ट्रप्रान्त-अभ्यासवर्गः
संस्कृतभारत्याः सौराष्ट्रप्रान्तस्य प्रान्त-अभ्यासवर्गः बीलखा ग्रामे समायोजितः ।

संस्कृतभारत्याः सौराष्ट्रप्रान्तस्य प्रान्त-अभ्यासवर्गः 27/28 -06-2026 इति दिनाङ्कयोः शनिरविवासरयोः जूनागढजनपदस्य बीलखा इति ग्रामस्य भक्त चेलैया धाम्नि सुसम्पन्नः अभवत् । एषः अभ्यासवर्गः कार्यकर्तॄणां विकासाय आयोजितः आसीत् ।

वर्गस्यास्य प्रारम्भः भारतमातुः पूजनेन मन्त्रोच्चारणेन अभवत्। उद्धाटनसत्रे विशेषरूपेण श्रीचेलैया धाम्नः पीठाधिपतिः प. पू. श्रीरामबापु, भक्त कवि नरसिंह महेता विश्वविद्यालयः जूनागढस्य कुलपतिः श्रीप्रतापसिंहः चौहाणमहोदयः, आनन्द-आश्रमस्य प्रधानाचार्यः श्रीनिलेशभट्टमहोदयः, तथा च अन्ये प्राध्यापकाः, प्रान्तस्तरस्य अपेक्षिताः निमन्त्रिताश्च सर्वेऽपि कार्यकर्तारः उपस्थिताः आसन् ।

अस्मिन् वर्गे विविधानि सत्राणि समायोजितानि आसन्। तत्र सत्रस्वीकर्तारूपेण संस्कृतभारत्याः अखिल-भारतीय-सङ्घटनमन्त्री श्रीजयप्रकाशः गौतममहोदयः, पश्चिमक्षेत्रस्य सङ्घटनमन्त्री श्रीविठ्ठलभट्टमहोदयः, सौराष्ट्रप्रान्तस्य अध्यक्षः श्रीसुकान्तकुमारः सेनापतिमहोदयः, उपाध्यक्षा धनेश्रीबेन भट्टमहोदया, मन्त्री श्रीपङ्कजभाई त्रिवेदी, सहमन्त्री श्रीप्रणवः राज्यगुरुमहोदयः च आसन् । तैः सर्वैः कार्यकर्ता, कार्यपद्धतिः, कार्यकर्तुषु भाषास्तरवर्धनं, आत्मनिरीक्षणं , तकनिकी- सज्जता, उत्तरदायित्वविषये तथा सौराष्ट्रप्रान्तस्य विविधविषयेषु मार्गदर्शनं प्रदत्तम् ।

विशेषतया वर्गेऽस्मिन् प्रान्तस्यास्य द्वितीयसम्मेलनस्य स्मरणिकायाः विमोचनम् अपि महानुभावानां उपस्थितौ सञ्जातम् । स्मरणिकायाः अस्याः सम्पादनं श्रीजानकीशरणः आचार्यः, श्रीकिशोरभाई शेलडियामहोदयश्च अकुरुताम्।

वर्गस्यास्य सकलम् आयोजनं जूनागढविभागस्य संजोजकः श्रीमौलिकभाई केलैयामहोदयः, प्रान्तप्रचारप्रमुखः श्रीकिशोरभाई शेलडियामहोदयः तथा अन्ये प्रबन्धकाः च अकुर्वन् । एतदनु सौराष्ट्रप्रान्तस्य प्रतिविभागम् अभ्यासवर्गाः भविष्यन्ति तत्र विभागस्य प्रत्येकं जनपदस्य दायित्ववन्तः कार्यकर्तारः प्रशिक्षणं प्राप्स्यन्ति।
॥ अस्तु शम् ॥.


  • Post By : Saurashtra
  • |
  • 16-07-2026
  • |