Top
Samskrita Bharati - North Tamilnadu
संस्कृतभारती - उत्तरतमिळनाडु
Latest Media & News
Preview Media & News

प्रवेशशिक्षकाणां नैपुण्यवर्गः
2.9.2023 दिनाङ्के उत्तरतमिलनाडुप्रान्तस्य शिक्षकाणाम् एकदिनात्मक: प्रवेशस्तरीयनैपुण्यवर्ग: सेवा-भवने संस्कृतभारत्याः प्रान्तकार्यालये आयोजित: । 42 कार्यकर्तार: भागं गृहीतवन्त: । वर्गस्य अस्य मुख्यप्रशिक्षक: दक्षिणक्षेत्रप्रशिक्षणप्रमुख: श्रीमान् रा.रामचन्द्र-महोदयः, पाठने सरसतां च बोधने सुगमतां च कथम् आनयेम इति प्राबोधयत्। अक्षरपाठनं, भाषाभ्यास:, संस्कृतव्यवहार:, सुभाषितम् इत्यादीनां बिन्दूनां पाठनाय प्रात्यक्षिक: कालांश: अपि आयोजित:, यत्र अनुभवि-कार्यकर्तार: मार्गदर्शनं कृतवन्त:। अग्रिम: प्रवेशशिक्षकनैपुण्यवर्ग: नवम्बर् मासे भविष्यति।.


  • Post By : North Tamilnadu
  • |
  • 04-09-2023
  • |