Top
संस्कृतभारत्याः परिचयः

अस्माकं दृष्टिः : पाठयेम संस्कृतं जगति सर्वमानवान् ! प्रापयेम भारतं सपदि परमवैभवम् !!

अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् ।
संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति ।
संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति ।
संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।


अस्माकं लक्ष्यम्

संस्कृतपठनस्य प्रोत्साहनं समाजस्य सर्ववर्गेभ्यः संस्कृताध्ययनार्थम् अवसरप्रकल्पनम् ।
संस्कृतस्य प्रचाराय वैश्विकस्तरे संस्कृतसंस्थाभिः सह संयोजनम् ।
संस्कृतपरम्परायाः संस्कृते निहितज्ञानस्य विषये च यथा योगः, मनोविज्ञानं, कला, सङ्गीतं, नृत्यम्, आयुर्वेदः इत्यादिशास्त्रेषु अनुसन्धानकार्याणां व्यवस्थापनं सहयोगो वा ।
संस्कृतभाषायाः पारम्परिकशास्त्राणां संरक्षकेभ्यः प्रचारकेभ्यश्च सहयोगः, सहकारः, छात्रवृत्तिः, मानदेयम्, इत्यादीनाम् आलम्बनकार्याणां व्यवस्थापनम् ।

संस्कृते निहितज्ञानस्य संस्कृतविषयकसमाचारस्य सम्प्रेषणार्थं प्रचारार्थं च पुस्तकानां, पत्त्रिकाणां, वार्तापत्त्र-पत्त्रिकाणां च प्रकाशनम् ।
संस्कृतभाषायाः शास्त्रपरम्परायाश्च प्रचारार्थम् अपेक्षितानाम् आर्थिकस्रोतसां निर्माणम् ।


संस्कृतभारत्याः सफलता प्रभावश्च

1,20,000 सम्भाषणशिबिरेषु 1,00,00,000 अधिकाः शिक्षार्थिनः संस्कृतसम्भाषणस्य शिक्षिताः ।
1,35,000 संस्कृतशिक्षकाः संस्कृतमाध्यमेन पाठयितुं प्रशिक्षिताः ।
6000 संस्कृतगृहाणि निर्मितानि ।
4 कुग्रामाः संस्कृतग्रामत्वेन परिवर्तिताः ।
विश्वस्य 26 राष्ट्रेषु 4500 केन्द्रेभ्यः संस्कृतस्य विकासकार्यक्रमाः ।
प्रप्रथमविश्वसंस्कृतपुस्तकमेला बेंगलूरु 2011,संस्कृतसाहित्योत्सवः उज्जयिनी 2013 इत्येतयोः आयोजनम् ।


अहं कथम् एतस्मिन् संस्कृतस्य पुनरुज्जीवनकार्ये भागं स्वीकर्तुं शक्नोमि ?

संस्कृतं पठतु

संस्कृतसम्भाषणशिबिरे भागं स्वीकरोतु ।
पत्त्रद्वारासंस्कृतपाठ्यक्रमे पञ्जीयनं करोतु ।


संस्कृतं पाठयतु

शिबिरचालकप्रशिक्षणवर्गे भागं स्वीकरोतु ।
आगच्छतु संस्कृतभारत्याः कार्यकर्ता भवतु ।

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,