Top
परियोजनाः

1. बालकेन्द्रम्

  • बालकेन्द्रं बालानां कृते संस्कृतभारत्या संरचिता विशिष्टा योजना अस्ति । अत्र बालाः प्रशिक्षितकार्यकर्तृभिः सायं काले अथवा विरामदिनेषु संस्कृतं पाठ्यन्ते ।
  • बालानां नित्यजीवने संस्कृतभाषायाः विनियोगस्य परिचयः ।
  • मातृभूमेः विषये प्रेम-आदरादिभावानां विकासः ।
  • प्रमाणपत्रीयपाठ्यक्रमसदृशः पाठ्यक्रमः ।
  • अत्यन्तम् आधुनिकेन सम्प्रेषणात्मकविधिना नवीनपद्धतीभिः कण्ठस्थीकरणशैल्याः भिन्नतया सरलरूपेण सहजतया च भाररहितं भाषाशिक्षणं क्रियते ।
  • पञ्चतन्त्रकथाभिः, सुभाषितैश्च संस्कृतसाहित्यस्य परिचयः ।
  • सरलं व्याकरणम् ।
  • बह्व्यः कथाः, गीतानि, क्रीडाः, हास्यकणिकाश्च छात्रान् सक्रियान् स्थापयन्ति, पाठ्यक्रमञ्च स्पष्टं सुग्राह्यं च कुर्वन्ति ।
  • सदा छात्राः धाराप्रवाहरूपेण भाषितुं प्रेर्यन्ते, मध्ये आगतानां लघुदोषाणां गणना क्रियते ।
  • हरिश्चन्द्रः, राणाप्रतापः, झांसीराणी, विवेकानन्दः इत्यादीनां महापुरुषाणां कथाः ।
  • एकलव्यः, अभिमन्युः, आरुणिः इत्यादीनाम् आदर्शपात्राणां कथाः ।
  • शिक्षकाणां प्रत्यक्षपद्धत्या पाठयितुम्, शिक्षणोपकरणानां च प्रयोगार्थं च समये समये प्रशिक्षणं प्रदास्यते ।


2. भाषाबोधनवर्गः

  • दशदिनसम्भाषणशिबिरस्य अनन्तरम् एषः 7-10 दिनानाम् आवासीयः वर्गः।
  • संस्कृतसम्भाषणकौशलस्य सम्यक् रूपेण विकासः कार्यते अस्मिन् वर्गे ।
  • वर्गानन्तरं प्रशिक्षार्थिनः सरलसंस्कृतसम्भाषणे आत्मविश्वासं धाराप्रवाहं च प्राप्नुवन्ति ।
  • भाषायाः प्राथमिकस्य व्याकरणस्य परिपुष्टीक्रियते ।
  • विभिन्नप्रकारकाः प्रयोगाः पाठ्यन्ते ।
  • शब्दानां धातूनां तद्भवशब्दानां च ज्ञानं प्रयोगश्च विकासति ।


3. शिबिरचालकप्रशिक्षणवर्गः

  • प्रतिवर्षम् आभरतम् एषः वर्गः प्रतिराज्यं चाल्यते ।
  • सम्भाषणशिबिरचालकानां प्रशिक्षणकार्यक्रमः ।
  • संस्कृतस्य प्रचारार्थं सरलसंस्कृतशिक्षणार्थं च अपेक्षितानि सर्वविधकौशलानि अधिगच्छन्ति ।
  • शिक्षार्थिषु शिक्षणकौशलानि सहजतया सक्रान्तानि भविष्यन्ति ।
  • दशदिनसम्भाषणशिबिरस्य सञ्चालनार्थम् अपेक्षितानि कौशलानि शिक्ष्यन्ते शिक्षार्थिनः ।
  • शिक्षार्थिनः सरलसंस्कृतसम्भाषणे सुप्रशिक्षिताः भविष्यन्ति ।
  • शिक्षार्थिनः आधुनिकाः भाषाशिक्षणपद्धतीः ज्ञास्यन्ति ।


4. शलाकापरीक्षा

  • शलाकापरीक्षा पारम्परिकशास्त्राध्ययनस्य मूल्याङ्कनपद्धतिः।
  • अत्र संस्कृतभारत्या प्रतिवर्षं व्याकरणे, न्याये, काव्ये च शलाकापरीक्षा आयोज्यते।
  • परीक्षाम् उत्तीर्णवन्तः छात्राः मनोरमापुरस्कारेण सम्मान्यन्ते।.
  • शास्त्राणाम् अध्ययने प्रवृत्तिवर्धनार्थम् एषा योजना।


5. व्याकरणवर्गः

  • समये समये संस्कृतभारत्याः राज्यशाखाभिः आभारतं व्याकरणवर्गाः सञ्चाल्यन्ते।
  • व्यकरणनिष्णातैः एषः वर्गः सञ्चाल्यते।
  • संस्कृतव्याकरणस्य केचन मुख्यबिन्दवः अत्र पाठ्यन्ते।
  • व्याकरणस्य मुख्यांशेषु अवधानं प्रदीयते।
  • वर्गे शिक्षार्थिभिः अधीतविषयस्य पुष्ट्यर्थं विभिन्नप्रकारककार्याणि कार्यन्ते ।


6. काव्यास्वादनवर्गः

  • सामान्यतया काव्यास्वादनवर्गः वर्षे विषयनिष्णातानां समयानुगुणं द्विवारं काव्यास्वादनवर्गः भविष्यति ।
  • प्रायः दिनत्रयात् एकसप्ताहं यावत् भवेत् ।
  • निश्चितं किञ्चित् काव्यं शिक्षणविषयत्वेन स्वीक्रियते ।
  • प्रशिक्षणकाले निर्दिष्टकाव्यस्य गद्यभागः पद्यभागो वा समग्रं प्रतिपाद्यते ।
  • काव्यस्थाः विभिन्नव्याकरणांशाः प्रयोगाश्च सुग्राह्यरीत्या पाठ्यन्ते ।
  • कवेः विभिन्नाः दृष्टयः भावनाश्च आविष्क्रियन्ते ।
  • प्रशिक्षणस्य अन्ते शिक्षार्थिनः कवेः काव्यचित्रणस्य शैल्याः स्थूलं रूपं ज्ञातुं काव्यसौन्दर्यम् अनुभोक्तुंच शक्ष्यन्ति ।


7. संस्कृतगृहम्

  • यत्र गृहजनाः सर्वे संस्कृतेन व्यवहरन्ति तत् संस्कृतगृहम् ।
  • गृहस्थबालानां मातृभाषा संस्कृतं भवति ।
  • संस्कृतगृहाणां संख्या 2012 तमे वर्षे 1177 आसीत्, 2014 तमे वर्षे सा एव संख्या 1909 पर्यन्तं गता ।


8. संस्कृतग्रामः

  • ग्रामवासिनः सर्वेऽपि सर्वविधव्यवहारं शुद्धया सरलया च संस्कृतभाषया कुर्वन्ति ।
  • भारतस्य पञ्च ग्रामाः यत्र ग्रामीणाः सर्वेऽपि केवलं संस्कृते एव व्यवहरन्ति –
    अ. मत्तूरु अथवा मुत्तूर (कर्णाटकम्)
    आ. होसहल्ली (कर्णाटकम्)
    इ. झिरि (मध्यप्रदेशः)
    ई. मोहद (मध्यप्रदेशः)


9. भाषाव्युत्पत्तियोजना

  • अस्मिन् कार्यक्रमे ये छात्राः प्रतिभावन्तः सन्ति प्रगताध्ययनं तथा शुद्धां निर्दुष्टां प्रवाहमयीं च भाषाम् अधिगन्तुमिच्छन्ति तेषां प्रशिक्षणं भवति।
  • चितानां छात्राणाम् एकवर्षात्मकं प्रशिक्षणं दीयते।
  • प्रशिक्षणं आवास-भोजनादिकं निश्शुल्कं भवति।
  • पुरुषाः महिलाश्च पृथक्तया पृथककेन्द्रेषु च पाठ्यन्ते।
  • प्रतिभागिनां संस्कृतसम्भाषणस्य प्राथमिकं ज्ञानं भवेत्।
  • प्रशिक्षणानन्तरं एते प्रशिक्षार्थिनः संस्कृतस्य प्रसारे प्रचारे च अग्रेसराः भविष्यन्ति।


10. सरस्वतीसेवायोजना

  • प्रमुखाधुनिकसाहित्यानां संस्कृते अनुवादार्थं योजना एषा समारब्धा।
  • 150 ततोऽधिकपुस्तकानाम् अधुना अनुवादकार्यं प्रचलति।
  • नूतनलेखकेभ्यः अवसरः, प्रोत्साहनं च अस्याः हेतुः। “शब्दशाला नैकविधानि नूतनपदानि नित्यव्यवहारोपयोगीनि आगतानि अस्माकं जीवने । अतः “शब्दशाला” योजना समारब्धा पाणिनीयनियमानुगुणम् आधुनिकपदजालस्य निर्माणार्थम् ।


11. संस्कृतविकीपीडिया

  • विकीपीडियासंस्थाया सह कार्याचरणम्। विकीपीडियासंस्था बेंगलूरुनगरे 2010 जनवरी, 23 दिनाङ्के आरब्धा।
  • संस्कृतप्रचारप्रसारदृष्ट्या संस्कृतभारती 50 अधिकान् पूर्णकालिककार्यकर्तॄन् अस्यां योजनायां योजितवती।
  • अधुना भौगिलिकाः, ऐतिहासिकाः, स्वास्थसम्बद्धाः. सामाजिकाश्च 10,000 अधिकाः लेखाः संस्कृतविकीपीडियामध्ये योजिताः।
  • संस्कृतविकीपीडिया सर्वाधिकगत्या वर्धमाना विकीपीडिया अस्ति।
  • संस्कृतविकीपीडियाविषये ज्ञातुम् इच्छन्ति अथवा संस्कृतविकीपीडियाकार्यकर्ता भवितुं इच्छन्ति कृपया अत्र नुदन्तु

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,