क - वर्गं प्रति बहुमूल्यानि वस्तूनि न आनेतव्यानि यथा – आभूषणानि, सङ्गणकम् (लैपटाप) अत्यधिकं धनम् इत्यादीनि ।
ख - स्वस्य कृते भोजनपात्राणि (स्थालिका, चषकः, चमसः, कंसः) स्वयम् आनेतव्यानि ।
ग - सर्वैरपि छात्रैः शयनाय स्वशैया ( बिस्तर ) आनेतव्या।
घ - ऑनलाईन पंजीकरणस्य पश्चात् आगमनस्य निश्चित-सूचनां 9560304040. दूरवाण्या ददातु, कदा केन यानेन च आगच्छति कृपया सूचयतु ।
ड - प्रशिक्षण-समये सर्वम् अपि संवादयन्त्रं यथा- दूरवाणी, टैब आदि प्रथमे दिने एव कार्यलये समर्पणीयं भवति । समापनदिने एव पुनः दास्यते । मध्ये अत्यन्तम् अनिवार्यं चेत् कार्यालये सम्पर्कः करणीयः ।
च - प्रशिक्षण-परिसरस्य सर्वे नियमाः पालनीयाः भवन्ति अन्यथा अनुशासनहीनतायां प्रतिप्रेषयितुं शक्यते ।