संस्कृतभारत्याः दशदिनसम्भाषणशिबिरम् अधुना सम्पूर्णे भारते तथा प्रमुखविदेशेषु च विश्वविख्यातं जातम् । संस्कृतप्रेमिणः दशदिनेषु प्रतिदिनं होराद्वये संस्कृतसम्भाषणसामर्थं सम्पादयन्ति। अत्यन्तम् आनन्देन संस्कृतं पठितुं सरलः उपायः एषः। अत्र वयोमर्यादा कापि नास्ति । संस्कृतस्य पूर्वज्ञानस्यापि आवश्कता अपि नास्ति ।
सम्भाषणशिबिरस्य अन्तिमे दिने प्रत्येकं छात्रः नित्यजीवने सरलसंस्कृते सम्भाषितुं धैर्यं, प्रेरणां च प्राप्नोति। आगच्छन्तु सम्भाषणशिबिरं प्रविशन्तु संस्कृतपठनस्य रुचिम् आस्वदयन्तु ।
सम्भाषणशिबिरं चालयितुं श्रद्धावन्तः केवलं १०-१५ छात्राः, एकः प्रकोष्ठः च आवश्यकः। भवतः अपेक्षितस्थाने एव शिबिरं चालयामः ।