Top
Samskrita Bharati - Delhi
संस्कृतभारती - देहली
Latest Media & News
Preview Media & News

देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्
देहल्यां आईटीओ समीपे दीनदयाल-उपाध्यायमार्गे 20अप्रैल 2019तमे दिनांके तदनुसारं शनिवासरे संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य निर्माणार्थं शिलान्यासः भूमिपूजनं च जातम्। वास्तुपूजनस्य भूमिपूजनस्य च कार्यक्रमेsस्मिन् श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृत-विद्यापीठस्य वैदिकाः समुपस्थिताः आसन्। अखिलभारतीय-अध्यक्षेण प्रो.भक्तवत्सलशर्मणा सर्वेषाम् अतिथीनां स्वागतं सम्मानं च कृतम्।
अखिलभारतीयमहामन्त्रीवर्येण श्रीमान् श्रीशदेवपुजारीमहाभागेन मंचे समुपस्थितानां परिचयः कारितः। अखिलभारतीयसंगठनमन्त्रिणा श्रीदिनेशकामतथमहोदयेन संस्कृतभारत्याः परिचयं कारयन् अद्यावधिपर्यन्तं संस्कृतभारतीद्वारा प्रचाल्यमानानां विभिन्नप्रकल्पानां विवरणं कुर्वन् प्रास्ताविकं प्रस्तुतम्।
तेनोक्तं वर्षद्वये संस्कृतभारत्याः अस्य अन्ताराष्ट्रियकार्यालयस्य भवननिर्माणकार्यं पूर्णं भविष्यतीति ।
सर्वैः अतिथिभिः स्व-स्व उद्बोधनं कृतम्।
कार्यक्रमे मुख्यातिथिरुपेण राष्ट्रियस्वयंसेवकसंघस्य सह सरकार्यवाहः श्रीसुरेशसोनीमहोदयः आसीत्।तेनोक्तं यत् संस्कृते स्वयमेव अन्तर्निहितशक्तिः वर्तते अस्याः भाषायाःडीएनएमध्ये स्वयमेव संस्कारः अस्ति अतः वयं संस्कृताय किमपि कुर्मः तर्हि स्वस्य एव उपकारं कुर्मः न तु संस्कृतस्य।
विशिष्टातिथिरुपेण भारतसर्वकारान्तर्गतं नीतिआयोगस्य कार्यकारी अधिकारी श्रीमान् अमिताभकान्तमहोदयः समुपस्थितः।तेनोक्तं संस्कृतम् असंख्यरहस्यानां ज्ञानं प्राप्तुं दिव्यम् औषधमस्ति
अतः सर्वकारः पूर्णसहयोगं करिष्यति।
कार्यक्रमेsस्मिन् श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतिः प्रो.रमेशपाण्डेय उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः श्रीदेवीप्रसादत्रिपाठी जवाहरलालनेहरुविश्वविद्यालयतः प्रो.हरेराममिश्रः प्रो.सन्तोषशुक्लः प्रो. उपेन्द्ररावः प्रो.बिहारीलालशर्मा प्रो.कमलाभारद्वाजः प्रो.राजारामशुक्लः प्रो.मार्कण्डेयतिवारी एवं च
संस्कृतभारत्याः उत्तरक्षेत्रीयसंगठनमन्त्री श्रीजयप्रकाशवर्यः देहलीप्रान्ताध्यक्षः प्रो.हरेरामत्रिपाठी श्रीनिवासमहोदयः प्रान्तमन्त्री श्रीकौशलकिशोरः श्रीविनायकः श्रीसुधीष्टमहोदयः श्रीलक्ष्मीनरसिह्मन् एवं च संस्कृतभारत्याः कार्यकर्तारः सामाजिकाश्च आहत्य पंचशतम् संस्कृतानुरागिणः समुपस्थिताः।
मुख्यन्यासिना श्रीदीपकराठीमहोदयेन सर्वेषाम् अतिथिनां धन्यवाद- ज्ञापनमपि कृतम्।अस्मिन् कार्यक्रमे मंचसंचालनं डॉ.रत्नमोहनझावर्येण कृतम्।.


  • Post By : Delhi
  • |
  • 20-05-2019
  • |