Top

संवादशाला

संस्कृते धाराप्रवाहरूपेण, शुद्धरूपेण, सहजतया वार्तालापः इत्युक्ते सा काचित् कला, तत् किञ्चित् विशिष्टं कौशलम् ।
संवादशालाम् आगच्छन्तु तां कलाम् अधिगच्छन्तु, तत्कौशलं सम्पादयन्तु ।


संवादशाला इत्युक्ते किम् ? तत्र किं भवति ?

संवादशाला 15 दिनात्मकः संस्कृतसम्भाषणस्य तथा सम्भाषणशिक्षणस्य च प्रगतः प्रशिक्षणकार्यक्रमः। एषा संस्कृतव्याकरणस्य संस्कृतभाषानुप्रयोगस्य च सक्रियताधारिता अध्ययनप्रक्रिया। एतस्य प्रशिक्षणकार्यक्रमस्य विशिष्टाभ्यासः एव साफल्यतायाः हेतुः। प्रायः संवादशालाद्वारा 15000 जनाः लाभान्विताः जाताः।


अस्य प्रशिक्षणकार्यक्रमस्य विशेषताः ?

दूरशिक्षायाः अपेक्षया साक्षात् शिक्षणं प्रभावि भवति। अत्र संस्कृतं संस्कृतमाध्यमेन पाठ्यते। सर्वविधसूचनाः संस्कृतेनैव दीयन्ते। तेन भाषायाः शीघ्रग्रहणम् उपयोगश्च भवति।


अत्र प्रवेशार्थं योग्यता

बि.ए., एम्.ए., शास्त्री, आचर्यकक्षासु अधीयानाः संस्कृतछात्राः, एवं संस्कृतपूर्वपरिचिताः अत्र भागं ग्रहीतुं शक्नुवन्ति ।


अवधिः

प्रतिमासं 1 दिनाङ्कात् 14 दिनाङ्कपर्यन्तं (प्रथमवर्गः), 16 दिनाङ्कात् 29 दिनाङ्कपर्यन्तं (द्वितीयवर्गः) च वर्गद्वयं भवति। कस्मिन्अपि वर्गें प्रवेशं स्वीकर्तुं शक्यते। प्रशिक्षणार्थिनः आरम्भात् पूर्वदिने वर्गस्थानं प्राप्नुयुः। प्रशिक्षणं 14, 29 दिनाङ्कयोः भोजनानन्तरं समाप्यते।
वर्गस्य प्रवेशानन्तरं वर्गस्य समाप्तिपर्यन्तं वर्गस्थाने एव भवितव्यम् । वर्गस्थानं मध्ये त्यक्तुं कस्यापि अनुमतिः नास्ति ।
वर्गस्य पञ्जीयनशुल्कं देहली / काशी (वाराणसी) रू.700/ रू.1000- ;
प्रतिवर्गं केवलं 60 स्थानानि एव भवन्ति । पञ्जीयनं प्रथमं पञ्जीकृतस्य प्रथमं प्राथम्यं दीयते । न्यूतान्यूनम् एकसप्ताहपूर्वं सूचना कर्तव्या।
आवेदनपत्रं प्रपूर्य, समर्प्य, शुल्कं च दत्वा यः कोऽपि स्वस्य स्थानम् आरक्षितुं शक्नोति। एकवारं दत्तं पञ्जीकरणशुल्कं केनापि कारणेन न प्रतिदास्यते।


कथं वर्गस्थानं प्राप्तव्यम् ?

निजामुद्दीनस्थानकात् सराईकेलखान-बसस्थानकम् आगन्तव्यम्, ततः 261 बसयानेन अथवा मुद्रिकास्थानयानेन पूर्वदेहल्यां नन्दनगर्यां मण्डोलिचुंगीबसस्थानकं प्राप्तव्यम् ।

नवदेहलीरैलस्थानकात् अज्मेरीगेटबसस्थानकम् आगन्तव्यम्, ततः 784 बसयानेन गोकुलपुरी प्राप्तव्या, गोकुलपुरीतः 212, 234, 259 इत्यादि बसयानैः मण्डोलिचुंगीबसस्थानकं प्राप्तव्यम् ।

शाहदरा-मेट्रोस्थानकात् रिक्षा अथवा आटोयानेन मण्डोलिचुंगीबसस्थानकं प्राप्तव्यम् ।

देहली-रैलस्थानकात् अथवा ऐ.एस्.बी.टि(ISBT) स्थानात् 261 यानेन मण्डोलिचुंगीबसस्थानकं प्राप्तव्यम् ।

संवादशालाप्रशिक्षणं दुर्गामन्दिरप्राङ्गणे भवति। मण्डोलिचुंगीबसस्थानकात् दुर्गामन्दिरं प्रायः 2.5kms मिते दूरे सेवाधाम्नः पुरतः भवति। 10 रूप्यकैः मण्डोलिचुंगीबसस्थानकात् रिक्षा अथवा आटोयानेन वर्गस्थानं प्राप्तुं शक्यते ।

संवादशालायाः सङ्केतः
देहली: संवादशाला, दुर्गामन्दिरपरिसरः, सेवाधामविद्यालयस्य पुरतः, मण्डोलीग्रामः, (नन्दनगरीबसस्थानकस्य समीपे), अणुसंकेतः: samvadshaladehali@gmail.com, चलवाणी- : +919560304040;

काशी/वाराणसी : संवादशाला N-3/21/1ई , आर. के पुरम् कर्माजीतपुर सुन्दर पुर वाराणसी 221005 , अणुसंकेतः: samvadshalakashi@gmail.com , चलवाणी- :+916386255401

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,