Top
वार्तानां पूर्वावलोकनम्

आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः
संस्कृतभारत्या आयोजित " आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः"
आश्विन-शुद्ध-पौर्णिमा(१३ऑक्टोबर) अस्मिन् दिने रत्नागिरी-माधवराव मुळ्ये-भवनम् (झाडगाव) इत्यत्र महर्षी-वाल्मीकि-जयन्ती-कार्यक्रम सुसम्पन्न ।
अस्मिन् कार्यक्रमे प्रमुखातिथिरूपेण संस्कृतभारत्या अखिल-भारतीय-प्रचार-प्रमुख तथा पश्चिम-क्षेत्र-सङ्घटनमन्त्री मा.शिरीष-भेडसगावकर-महोदय उपातिष्ठत्। कार्यक्रमस्य अध्यक्षरूपेण राष्ट्रीय-स्वयंसेवक-सङ्घस्य दक्षिण-रत्नागिरी-जिल्हा-संघचालक मा. आनन्दः तथा नाना मराठे उपातिष्ठत्। तथैव संस्कृतभारती रत्नागिरी जनपद-अध्यक्षा डॉ.कल्पना आठल्ये महोदया जनपदमन्त्री मा. मुकेश बामणे जनपद-सहमन्त्री आशिष आठवले उपस्थिता आसन्।
संस्कृतानूदितानां गीतरामायणगीतानां गायनेन कार्यक्रमस्य प्रारम्भ अभवत्। तत्र सुश्रुत-चितळे सायली-मुळ्ये रेणुका-भडभडे अमृता-आपटे अंजली-वाडीये एतैः गीतानि सादरीकृतानि।

संस्कृतं अत एव संस्कृति । संस्कृतभाषाया प्रचार-प्रसारार्थमुत्तमं कार्यम् इयं संस्था करोति इति मराठेमहोदयः अभाषत। अतिथिमहोदय प्रसादगुणमयीशैल्या सरलसंस्कृतेन आदिकवि-वाल्मिकीविषये उदबोधयत्। आदिकवेः मुखात् प्रथमश्लोकः कथं आगतः तस्य कथा महोदयेन प्रोक्ता। तथा च अद्यतनकाले अपि आदिकाव्ये रामायणे उक्तानां श्लोकानां उपयोगितामपि शिरीषमहोदयः उक्तवान्।
शान्तिमन्त्रपठनेन कार्यक्रमः समाप्तिं गतः।.


  • द्वारा स्थापितम् - कोङ्कणम्
  • |
  • 01-11-2019
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,