Top
वार्तानां पूर्वावलोकनम्

देहल्यां_संस्कृतभारतीद्वारा संस्कृतशाकापणस्य आयोजनम्
देहल्यामपि संस्कृतभारतीद्वारा संस्कृतसप्ताहस्योपलक्ष्ये विभिन्नेषु विभागेषु संस्कृतसप्ताहाचरणमाचरितम्। तत्र रामकृष्णपुरविभागे कटवारियासराय-शाकापणे संस्कृतशाकापणस्य आयोजनं जातम्।तत्र संस्कृतमाध्यमेन शाकानां विक्रयणं जातम्। कार्यकर्तारः आपणिकश्च संस्कृतभाषायां शाकानां फलानां च नामानि उच्चस्वरेण *आलुकम्वृन्तांकम्भिण्डिका
तुम्बीकर्कटीलशुनम्पलाण्डुः
कदलीफलम्सेबफलम्* इत्यादिकमुक्त्वा विक्रयणं कृतवन्तः।समाजिकाः दृश्यमिमं दृष्ट्वा प्रसन्नचित्ताःआसन् अतः हासपरिहासे ते अपि संस्कृतस्य प्रयोगं कृत्वा शाकानि फलानि वा स्वीकृतवन्तः।तत्र डॉ.अर्चनाडॉ. नवीनशर्माश्रीमती प्रज्ञाश्रीदेवकीनन्दनादयः जनजागरणं कृतवन्तः।.


  • द्वारा स्थापितम् - देहली
  • |
  • 30-08-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,