Top
वार्तानां पूर्वावलोकनम्

कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर
गत 26-08-2019 दिनाङ्के कानपुरमहानगरे छत्रपतिशाहूजीमहाराजविश्वविद्यालये कश्मीर की विद्वत्परम्परा विषये दीनदयालशोधकेन्द्र-संस्कृतभारतीकानपुरप्रान्तयोः संयुक्ततत्त्वावधाने एकदिवसीया राष्ट्रीयसङ्गोष्ठी प्रवृत्ता।
प्रास्ताविकम् उक्तवती संस्कृतभारत्याः प्रान्ताध्यक्षा डॉ प्रेमा अवस्थी। अवसरेस्मिन् महोदयाद्वारा विरचितग्रन्थः अभिनवगुप्तः एक परिचय अपि लोकार्पितः।
उद्घाटनसत्रे मुख्यातिथिः आसीत् संस्कृतभारत्याः अखिलभारतीय-महामन्त्री माननीयः श्रीशः देवपुजारी। महोदयः कश्मीरस्य काव्यनाटक-दर्शनादिविषयाणांं विदुषां परिचयं कारयित्वा उक्तवान् यत् सर्वप्रथमं काश्मीरे एव कल्हणनाम्ना कविना राजतरङ्गिणीं विलिख्य इतिहासलेखने गौरवं प्राप्तम्।
मुख्यवक्ता रूट्स इन कश्मीर संस्थाप्रमुखः श्रीसुशीलपण्डितः उक्तवान् यत् पञ्चसहस्राधिकवर्षेभ्यः कश्मीरस्य भारतीयज्ञानविज्ञान-परम्परायाः प्रवाहः प्रचलति अत्र पञ्चसहस्रवर्षेभ्यः पुरातनः पञ्चाङ्गः अपि अस्ति। योग-नाट्य-व्याकरण-दर्शनादि शास्त्राणि अत्रैव विरचितानि। साउण्ड एण्ड एनर्जी विषये आनन्दवर्धनेन विरचितं ध्वन्यालोकनामके ग्रन्थे सम्प्रति आई0 आई0 टी0 कानपुरे साउण्ड एण्ड एनर्जी विभागे शोधकार्यं प्रचलति। विश्वे अशीतिविश्वविद्यालयेषु शैवदर्शनस्य प्रतिपादकः अभिनवगुप्तपादाचार्यः विषयरूपेण पाठ्यते। भारते अपि आचार्यपादः पाठ्यक्रमे संयोजितव्यः। पुनश्च काश्मीरस्य विद्ववत्परम्परायाः ज्ञानम् अपि आवश्यकम्। उद्घाटनसत्रस्य अध्यक्षतांं कानपुरविश्वविद्यालयस्य कुलपतिः प्रो0 नीलिमा गुप्ता कृतवती।
द्वितीयसत्रस्य मुख्यवक्ता राष्ट्रपतिसम्मानेन विभूषितः प्रो0 ओम् प्रकाशपाण्डेयः कश्मीरे विरचितग्रन्थानां ग्रन्थकारानाञ्च विस्तरेण व्याख्यानं दत्तवान्।
समारोपसत्रस्य मुख्यवक्ता मुस्लिमराष्ट्रीयमञ्चस्य मार्गदर्शकः माननीयः इन्द्रेशकुमारः ओजस्विवाण्या उक्तवान् यत् कश्मीरे द्विविधाः जनाः निवसन्ति शान्तिपराः सूफीमतावलम्बिनः कट्टरपन्थिनश्चेति। द्वितीयविधाः 20 लक्षसङ्ख्यात्मकाः एव कश्मीरस्य संस्कृतिं वैभवं च नष्टं कृतवन्तः। कश्मीरजनाः मातृभूमिं प्रति निष्ठावन्तः सुशिक्षां चिकित्सां सम्पन्नताञ्च प्राप्तुमुत्सुकाश्च सन्ति। स्वानुभवं वर्णयन् इन्द्रेशमहाभागः उक्तवान् यत् भारतेन सह सम्बद्धाः ये देशा सन्ति तेषां सीमासुरक्षा पब्लिकपुलिसबॉर्डररूपेण विधातव्या। समारोपसत्रस्य अध्यक्षीयपाथेयं पूर्व-उत्तरप्रदेशक्षेत्रस्य क्षेत्रसङ्घचालक-माननीयवीरेन्द्रपराक्रमादित्य-महोदयेन प्रदत्तम्। अवसरेस्मिन् संस्कृतसप्ताहे विभिन्नविद्यालयेषु महाविद्यालयेषु च आयोजितप्रतियोगितासु उत्कृष्टाः पुरस्कृताः। स्वस्तिवाचनं श्रीनेत्रपालगुरुकुलच्छात्राः कृतवन्तः विभिन्नमहाविद्यालयच्छात्राः समूहगानानि प्रस्तुतवन्तः। अभ्यागतानां स्वागतं कार्यक्रमसंयोजकः प्रो0 श्यामबाबूगुप्तः निदेशकः दीनदयालशोधकेन्द्रम् कृतवान् । सञ्चालनम् अवधबिहारीमिश्रः डॉ उपज्ञा प्रो0 सुविज्ञा अवस्थी प्रलयश्च कृतवन्तः । अवसरेस्मिन् विश्वविद्यालयस्य कुलसचिवः प्रो0 विनोदकुमारसिंहः डीन प्रो0 सञ्जयस्वर्णकारः प्रो0 आर् सी कटियारः डॉ छायाजैन डॉ हरिभाऊ खाण्डेकर पूर्व ब्रिगेडियर गोपालचन्द्रपाण्डेयः डॉ एस0 एस0 पाण्डेयः डॉ गीतागुप्ता डॉ आशापाण्डेया श्रीमती प्रवीणामिश्रा विभागकार्यवाहः भवानीभीखः डॉ कमलाकान्तपाण्डेयः डॉ स्नेह अवस्थी मीनी मिश्रा डॉ मनोज अवस्थी जयनारायणशुक्लः दीपक अरोड़ा नरेन्द्रशास्त्री मनोरमा जया रङ्गनाथत्रिपाठी इत्यादयः द्विशताधिकाः प्रबुद्धाः विद्वान्सः कार्यकर्तारश्च समुपस्थिताः आसन् ।
अन्ते प्रो0 सुविज्ञाद्वारा सम्पूर्णवन्देमातरम् अभवत् ।.


  • द्वारा स्थापितम् - कानपुरम्
  • |
  • 27-09-2019
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,