Top
वार्तानां पूर्वावलोकनम्

kashi adhiveshnam 2018
२८ दिनाङ्कस्य समापनसत्रे मुख्यातिथित्वेन उत्तरप्रदेशस्य मुख्यमन्त्रिणः श्रीमतः योगी आदित्यनाथमहोदयस्योपस्थितिः अभिभाषणं च।’यदि भारतवर्षं विश्वस्मिन् यथा प्रतिष्ठितं गौरवान्वितं चासीत् तथा अद्यत्वेऽपि भवेत् तर्हि केवलं संस्कृतभाषया तद्भाषानिबद्धदर्शनेन न त्वन्येन केनचिदुपायेन। अत एव सम्पूर्णे उत्तरप्रदेशे अखिलेष्वपि प्राथमिकविद्यालयेषु पठतां सर्वेषामपि मुखे व्यावहारिकं संस्कृतं प्रयोगे यथा भवेत् सर्वेष्वपि विद्यालयेषु संस्कृतमयं वातावरणं यथा आगच्छेत् तदर्थम् इदानीम् उत्तरप्रदेशसर्वकारेण विशिष्टः प्रयत्नः प्रारब्धः अस्ति। इयं संस्कृतभाषा न केवलम् आत्मनः विकासाय गौरवाप्तये च हेतुभूतं भवति अपितु विश्वस्मिन् जर्मन्-फ्रेंच् इत्यादिवैदेशिकभाषाणाम् अस्माकं प्रान्तीयभाषाणां च स्पष्टतया शिक्षणे‍ऽवगमनेऽपि संस्कृतभाषैषा अतीव सहायिका भवितुम् अर्हति। तादृशमुदाहरणं मम पार्श्वे अस्ति।अतः राष्ट्रस्य गौरवाभिवर्धनदृष्ट्या आधुनिकतन्त्रादिज्ञानसंवर्धनदृष्ट्या संस्कृतभाषायाः अत्यन्तमेव उपयोगिता वर्तते। संस्कृतभारत्या एतदर्थं क्रियमाणानि कार्याणि एतस्याः अखिलभारते सन्नद्धानां कार्यकर्तॄणां त्यागः तपश्च अवश्यं.


  • द्वारा स्थापितम् - काशी
  • |
  • 14-11-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,